Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-37-40)

तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च । त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥ ५५ ॥ कृशानां बृंहणायालं स्थूलानां कर्शनाय च । बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥ ५६ ॥ संस्कारात् सर्व-दोष-जित् स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु । वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥ ५७ ॥ रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥ ५८ ॥ कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् । लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥ ५९ ॥ आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥ ६० ॥ उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् । वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥ ६१ ॥ मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव ।

tailaṃ sva-yoni-vat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca ।tvag-doṣa-kṛd a-cakṣuṣyaṃ sūkṣmoṣṇaṃ kapha-kṛn na ca ॥ 55 ॥kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca ।baddha-viṭkaṃ kṛmi-ghnaṃ ca saṃskārāt sarva-roga-jit ॥ 56 ॥5.56dv saṃskārāt sarva-doṣa-jit sa-tiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru ।vardhma-gulmānila-kaphān udaraṃ viṣama-jvaram ॥ 57 ॥ruk-śophau ca kaṭī-guhya-koṣṭha-pṛṣṭhāśrayau jayet ।tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati ॥ 58 ॥kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kapha-śukrānilāpaham ।laghu pittāsra-kṛt koṭha-kuṣṭhārśo-vraṇa-jantu-jit ॥ 59 ॥ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham ।nāty-uṣṇaṃ nimba-jaṃ tiktaṃ kṛmi-kuṣṭha-kapha-praṇut ॥ 60 ॥umā-kusumbha-jaṃ coṣṇaṃ tvag-doṣa-kapha-pitta-kṛt ।vasā majjā ca vāta-ghnau bala-pitta-kapha-pradau ॥ 61 ॥māṃsānuga-sva-rūpau ca vidyān medo 'pi tāv iva ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI