![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-35) |
फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् । नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥ ४७ ॥ प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः । हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥ ४८ ॥ वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः । मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥ ४९ ॥ तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा । दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥ ५० ॥ शर्करेक्षु-विकाराणां फाणितं च वरावरे । |
phāṇitaṃ gurv abhiṣyandi caya-kṛn mūtra-śodhanam ।nāti-śleṣma-karo dhautaḥ sṛṣṭa-mūtra-śakṛd guḍaḥ ॥ 47 ॥prabhūta-kṛmi-majjāsṛṅ-medo-māṃsa-kapho 'paraḥ ।hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgni-sāda-kṛt ॥ 48 ॥vṛṣyāḥ kṣīṇa-kṣata-hitā rakta-pittānilāpahāḥ ।matsyaṇḍikā-khaṇḍa-sitāḥ krameṇa guṇa-vat-tamāḥ ॥ 49 ॥tad-guṇā tikta-madhurā kaṣāyā yāsa-śarkarā ।dāha-tṛṭ-chardi-mūrchāsṛk-pitta-ghnyaḥ sarva-śarkarāḥ ॥ 50 ॥śarkarekṣu-vikārāṇāṃ phāṇitaṃ ca varāvare । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |