![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-33-34) |
मूलाग्र-जन्तु-जग्धादि-पीडनान् मल-संकरात् । किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ ४४ ॥ विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः । शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥ ४५ ॥ शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् । स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥ ४६ ॥ |
mūlāgra-jantu-jagdhādi-pīḍanān mala-saṃkarāt ।kiñ-cit-kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ ॥ 44 ॥vidāhī guru-viṣṭambhī tenāsau tatra pauṇḍrakaḥ ।śaitya-prasāda-mādhuryair varas tam anu vāṃśikaḥ ॥ 45 ॥śataparvaka-kāntāra-naipālādyās tataḥ kramāt ।sa-kṣārāḥ sa-kaṣāyāś ca soṣṇāḥ kiñ-cid-vidāhinaḥ ॥ 46 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |