Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Rógánutpádníja, (S.-1, Ch.-4, V.-2-a)

* शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः । ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥ ४ ॥ मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः । अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ५ ॥ मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् । वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥ ६ ॥ अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु । मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ७ ॥ सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् । अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥ ८ ॥ उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः । आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥ ९ ॥

śakṛtaḥ piṇḍikodveṣṭa-pratiśyāya-śiro-rujaḥ । ūrdhva-vāyuḥ parīkarto hṛdayasyoparodhanam ॥ 4 ॥ mukhena viṭ-pravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ । aṅga-bhaṅgāśmarī-vasti-meḍhra-vaṅkṣaṇa-vedanāḥ ॥ 5 ॥ mūtrasya rodhāt pūrve ca prāyo rogās tad-auṣadham । varty-abhyaṅgāvagāhāś ca svedanaṃ vasti-karma ca ॥ 6 ॥ anna-pānaṃ ca viḍ-bhedi viḍ-rodhottheṣu yakṣmasu । mūtra-jeṣu tu pāne ca prāg-bhaktaṃ śasyate ghṛtam ॥ 7 ॥ sarpiṣaś cāvapīḍakam jīrṇāntikaṃ cottamayā mātrayā yojanā-dvayam । avapīḍakam etac ca saṃjñitaṃ dhāraṇāt punaḥ ॥ 8 ॥ udgārasyā-ruciḥ kampo vibandho hṛdayorasoḥ । ādhmāna-kāsa-hidhmāś ca hidhmā-vat tatra bheṣajam ॥ 9 ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI