![]() |
केनोपनिषत् (kéna upnišad) ,-kéna upnišad 1, (S.-3, Ch.-1, V.-0) |
॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥ |
॥ atha kenopaniṣat ॥ Om̃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi । sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu । Om̃ śāntiḥ śāntiḥ śāntiḥ ॥ |