Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-36-42)

हीनो ऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा । अति-योगो ऽति-संसर्गः सूक्ष्म-भासुर-भैरवम् ॥ ३६ ॥ अत्य्-आसन्नाति-दूर-स्थं वि-प्रियं विकृतादि च । यद् अक्ष्णा वीक्ष्यते रूपं मिथ्या-योगः स दारुणः ॥ ३७ ॥ एवम् अत्य्-उच्च-पूत्य्-आदीन् इन्द्रियार्थान् यथा-यथम् । विद्यात् कालस् तु शीतोष्ण-वर्षा-भेदात् त्रि-धा मतः ॥ ३८ ॥ स हीनो हीन-शीतादिर् अति-योगो ऽति-लक्षणः । मिथ्या-योगस् तु निर्दिष्टो विपरीत-स्व-लक्षणः ॥ ३९ ॥ काय-वाक्-चित्त-भेदेन कर्मापि विभजेत् त्रि-धा । कायादि-कर्मणो हीना प्रवृत्तिर् हीन-संज्ञकः ॥ ४० ॥ अति-योगो ऽति-वृत्तिस् तु वेगोदीरण-धारणम् । विषमाङ्ग-क्रियारम्भ-पतन-स्खलनादिकम् ॥ ४१ ॥ भाषणं सामि-भुक्तस्य राग-द्वेष-भयादि च । कर्म प्राणातिपातादि दश-धा यच् च निन्दितम् ॥ ४२ ॥ मिथ्या-योगः समस्तो ऽसाव् इह वामु-त्र वा कृतम् ।

hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā ।ati-yogo 'ti-saṃsargaḥ sūkṣma-bhāsura-bhairavam ॥ 36 ॥aty-āsannāti-dūra-sthaṃ vi-priyaṃ vikṛtādi ca ।yad akṣṇā vīkṣyate rūpaṃ mithyā-yogaḥ sa dāruṇaḥ ॥ 37 ॥evam aty-ucca-pūty-ādīn indriyārthān yathā-yatham ।vidyāt kālas tu śītoṣṇa-varṣā-bhedāt tri-dhā mataḥ ॥ 38 ॥sa hīno hīna-śītādir ati-yogo 'ti-lakṣaṇaḥ ।mithyā-yogas tu nirdiṣṭo viparīta-sva-lakṣaṇaḥ ॥ 39 ॥kāya-vāk-citta-bhedena karmāpi vibhajet tri-dhā ।kāyādi-karmaṇo hīnā pravṛttir hīna-saṃjñakaḥ ॥ 40 ॥ati-yogo 'ti-vṛttis tu vegodīraṇa-dhāraṇam ।viṣamāṅga-kriyārambha-patana-skhalanādikam ॥ 41 ॥bhāṣaṇaṃ sāmi-bhuktasya rāga-dveṣa-bhayādi ca ।karma prāṇātipātādi daśa-dhā yac ca ninditam ॥ 42 ॥mithyā-yogaḥ samasto 'sāv iha vāmu-tra vā kṛtam ।

-



Kommentar



...