| १. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-32-35) |
दोषा एव हि सर्वेषां रोगाणाम् एक-कारणम् । यथा पक्षी परिपतन् सर्वतः सर्वम् अप्य् अहः ॥ ३२ ॥ छायाम् अत्येति नात्मीयां यथा वा कृत्स्नम् अप्य् अदः । विकार-जातं विविधं त्रीन् गुणान् नातिवर्तते ॥ ३३ ॥ तथा स्व-धातु-वैषम्य-निमित्तम् अपि सर्व-दा । विकार-जातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥ ३४ ॥ अर्थैर् अ-सात्म्यैः संयोगः कालः कर्म च दुष्-कृतम् । हीनाति-मिथ्या-योगेन भिद्यते तत् पुनस् त्रि-धा ॥ ३५ ॥ |
yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ ॥ 32 ॥chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ ।vikāra-jātaṃ vividhaṃ trīn guṇān nātivartate ॥ 33 ॥tathā sva-dhātu-vaiṣamya-nimittam api sarva-dā ।vikāra-jātaṃ trīn doṣān teṣāṃ kope tu kāraṇam ॥ 34 ॥arthair a-sātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣ-kṛtam ।hīnāti-mithyā-yogena bhidyate tat punas tri-dhā ॥ 35 ॥ |
| - |
| Kommentar ... |