| १. सूत्रस्थानम् - 1. sútrasthánam,-१०रसभेदीय:-10rasa-bhedīya:, (S.-1, Ch.-10, V.-6-9) |
रसानाम् इति रूपाणि कर्माणि मधुरो रसः ॥ ६ ॥ आ-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् । बाल-वृद्ध-क्षत-क्षीण-वर्ण-केशेन्द्रियौजसाम् ॥ ७ ॥ प्रशस्तो बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिल-विषापहः ॥ ८ ॥ कुरुते ऽत्य्-उपयोगेन स मेदः-श्लेष्म-जान् गदान् । स्थौल्याग्नि-साद-संन्यास-मेह-गण्डार्बुदादिकान् ॥ ९ ॥ |
rasānām iti rūpāṇi karmāṇi madhuro rasaḥ ॥ 6 ॥ ā-janma-sātmyāt kurute dhātūnāṃ prabalaṃ balam । bāla-vṛddha-kṣata-kṣīṇa-varṇa-keśendriyaujasām ॥ 7 ॥ praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanya-saṃdhāna-kṛd guruḥ । āyuṣyo jīvanaḥ snigdhaḥ pittānila-viṣāpahaḥ ॥ 8 ॥ kurute 'ty-upayogena sa medaḥ-śleṣma-jān gadān । sthaulyāgni-sāda-saṃnyāsa-meha-gaṇḍārbudādikān ॥ 9 ॥ |
| - |
| Kommentar ... |