Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-१०रसभेदीय:-10rasa-bhedīya:, (S.-1, Ch.-10, V.-2-5)

तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति । आस्वाद्यमानो देहस्य ह्लादनो ऽक्ष-प्रसादनः ॥ २ ॥ प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् । हर्षणो रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥ ३ ॥ लवणः स्यन्दयत्य् आस्यं कपोल-गल-दाह-कृत् । तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥ ४ ॥ उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः । स्रावयत्य् अक्षि-नासास्यं कपोलं दहतीव च ॥ ५ ॥ कषायो जडयेज् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् ।

teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati । āsvādyamāno dehasya hlādano 'kṣa-prasādanaḥ ॥ 2 ॥ priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham । harṣaṇo roma-dantānām akṣi-bhruva-nikocanaḥ ॥ 3 ॥ lavaṇaḥ syandayaty āsyaṃ kapola-gala-dāha-kṛt । tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca ॥ 4 ॥ udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ । srāvayaty akṣi-nāsāsyaṃ kapolaṃ dahatīva ca ॥ 5 ॥ kaṣāyo jaḍayej jihvāṃ kaṇṭha-sroto-vibandha-kṛt ।

-



Kommentar



...