| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-54-61) |
तत्र बद्ध-मलाः शीता लघवो जाङ्गला हिताः । पित्तोत्तरे वात-मध्ये संनिपाते कफानुगे ॥ ५४ ॥ दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः । ईषद्-उष्ण-गुरु-स्निग्धा बृंहणा वर्तकादयः ॥ ५५ ॥ तित्तिरिस् तेष्व् अपि वरो मेधाग्नि-बल-शुक्र-कृत् । ग्राही वर्ण्यो ऽनिलोद्रिक्त-संनिपात-हरः परम् ॥ ५६ ॥ नाति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् । तद्-वच् च कुक्कुटो वृष्यो ग्राम्यस् तु श्लेष्मलो गुरुः ॥ ५७ ॥ मेधानल-करा हृद्याः क्रकराः सोपचक्रकाः । गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत्॥ ५८ ॥ चटकाः श्लेष्मलाः स्निग्धा वात-घ्नाः शुक्रलाः परम् । गुरूष्ण-स्निग्ध-मधुरा वर्गाश् चातो यथोत्तरम् ॥ ५९ ॥ मूत्र-शुक्र-कृतो बल्या वात-घ्नाः कफ-पित्तलाः । शीता महा-मृगास् तेषु क्रव्याद-प्रसहाः पुनः॥ ६० ॥ लवणानु-रसाः पाके कटुका मांस-वर्धनाः । जीर्णार्शो-ग्रहणी-दोष-शोषार्तानां परं हिताः॥ ६१ ॥ |
tatra baddha-malāḥ śītā laghavo jāṅgalā hitāḥ ।pittottare vāta-madhye saṃnipāte kaphānuge ॥ 54 ॥ dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ ।īṣad-uṣṇa-guru-snigdhā bṛṃhaṇā vartakādayaḥ ॥ 55 ॥tittiris teṣv api varo medhāgni-bala-śukra-kṛt ।grāhī varṇyo 'nilodrikta-saṃnipāta-haraḥ param ॥ 56 ॥nāti-pathyaḥ śikhī pathyaḥ śrotra-svara-vayo-dṛśām । tad-vac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ ॥ 57 ॥ medhānala-karā hṛdyāḥ krakarāḥ sopacakrakāḥ ।guruḥ sa-lavaṇaḥ kāṇa-kapotaḥ sarva-doṣa-kṛt ॥ 58 ॥caṭakāḥ śleṣmalāḥ snigdhā vāta-ghnāḥ śukralāḥ param ।gurūṣṇa-snigdha-madhurā vargāś cāto yathottaram ॥ 59 ॥ mūtra-śukra-kṛto balyā vāta-ghnāḥ kapha-pittalāḥ ।śītā mahā-mṛgās teṣu kravyāda-prasahāḥ punaḥ ॥ 60 ॥lavaṇānu-rasāḥ pāke kaṭukā māṃsa-vardhanāḥ ।jīrṇārśo-grahaṇī-doṣa-śoṣārtānāṃ paraṃ hitāḥ ॥ 61 ॥ |
| - |
| Kommentar ... |