| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-41-52) |
हरिणैण-कुरङ्गर्क्ष-गोकर्ण-मृगमातृकाः ॥ ४१ ॥ शश-शम्बर-चारुष्क-शरभाद्या मृगाः स्मृताः । लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः ॥ ४२ ॥ कपिञ्जलोपचक्राख्य-चकोर-कुरुबाहवः । वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी ॥ ४३ ॥ ताम्र-चूडाख्य-बकर-गोनर्द-गिरि-वर्तिकाः । ताम्र-चूडाख्य-वरक- तथा शारपदेन्द्राभ-वरटाद्याश् च विष्किराः ॥ ४४ ॥ जीवञ्जीवक-दात्यूह-भृङ्गाह्व-शुक-सारिकाः । लट्वा-कोकिल-हारीत-कपोत-चटकादयः ॥ ४५ ॥ प्रतुदा भेक-गोधाहि-श्वाविद्-आद्या बिले-शयाः । गो-खराश्वतरोष्ट्राश्व-द्वीपि-सिंहर्क्ष-वानराः ॥ ४६ ॥ मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः । लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः ॥ ४७ ॥ शशघ्नी-भास-कुरर-गृध्रोलूक-कुलिङ्गकाः । धूमिका मधुहा चेति प्रसहा मृग-पक्षिणः ॥ ४८ ॥ वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः । सृमरश् चमरः खड्गो गवयश् च महा-मृगाः ॥ ४९ ॥ हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः । बलाकोत्क्रोश-चक्राह्व-मद्गु-क्रौञ्चादयो ऽप्-चराः ॥ ५० ॥ मत्स्या रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः । शुक्ति-शङ्खोद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः ॥ ५१ ॥ चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः । राजी-चिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्ट-धा॥ ५२ ॥ |
hariṇaiṇa-kuraṅgarkṣa-gokarṇa-mṛgamātṛkāḥ ॥ 41 ॥śaśa-śambara-cāruṣka-śarabhādyā mṛgāḥ smṛtāḥ ।lāva-vārtīka-vartīra-raktavartmaka-kukkubhāḥ ॥ 42 ॥kapiñjalopacakrākhya-cakora-kurubāhavaḥ ।vartako vartikā caiva tittiriḥ krakaraḥ śikhī ॥ 43 ॥tāmra-cūḍākhya-bakara-gonarda-giri-vartikāḥ ।tathā śārapadendrābha-varaṭādyāś ca viṣkirāḥ ॥ 44 ॥jīvañjīvaka-dātyūha-bhṛṅgāhva-śuka-sārikāḥ ।laṭvā-kokila-hārīta-kapota-caṭakādayaḥ ॥ 45 ॥pratudā bheka-godhāhi-śvāvid-ādyā bile-śayāḥ ।go-kharāśvataroṣṭrāśva-dvīpi-siṃharkṣa-vānarāḥ ॥ 46 ॥mārjāra-mūṣaka-vyāghra-vṛka-babhru-tarakṣavaḥ ।lopāka-jambuka-śyena-cāṣa-vāntāda-vāyasāḥ ॥ 47 ॥śaśaghnī-bhāsa-kurara-gṛdhrolūka-kuliṅgakāḥ ।dhūmikā madhuhā ceti prasahā mṛga-pakṣiṇaḥ ॥ 48 ॥varāha-mahiṣa-nyaṅku-ruru-rohita-vāraṇāḥ ।sṛmaraś camaraḥ khaḍgo gavayaś ca mahā-mṛgāḥ ॥ 49 ॥haṃsa-sārasa-kādamba-baka-kāraṇḍava-plavāḥ ।balākotkrośa-cakrāhva-madgu-krauñcādayo 'p-carāḥ ॥ 50 ॥matsyā rohita-pāṭhīna-kūrma-kumbhīra-karkaṭāḥ ।śukti-śaṅkhodra-śambūka-śapharī-varmi-candrikāḥ ॥ 51 ॥culūkī-nakra-makara-śiśumāra-timiṅgilāḥ ।rājī-cilicimādyāś ca māṃsam ity āhur aṣṭa-dhā ॥ 52 ॥ |
| - |
| Kommentar ... |