![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-74) |
अथ शूकधान्य वर्गः रक्तो महान् स-कलमस् तूर्णकः शकुनाहृतः । सारा-मुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥ १ ॥ पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः । स्वादु-पाक-रसाः स्निग्धा वृष्या बद्धाल्प-वर्चसः ॥ २ ॥ कषायानु-रसाः पथ्या लघवो मूत्रला हिमाः । शूक-जेषु वरस् तत्र रक्तस् तृष्णा-त्रि-दोष-हा ॥ ३ ॥ महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे । यवका हायनाः पांसु-बाष्प-नैषधकादयः ॥ ४ ॥ स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्म-पित्तलाः । सृष्ट-मूत्र-पुरीषाश् च पूर्वं पूर्वं च निन्दिताः ॥ ५ ॥ |
rakto mahān sa-kalamas tūrṇakaḥ śakunāhṛtaḥ ।sārā-mukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ ॥ 1 ॥pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ svādu-pāka-rasāḥ snigdhā vṛṣyā baddhālpa-varcasaḥ ॥ 2 ॥kaṣāyānu-rasāḥ pathyā laghavo mūtralā himāḥ ।śūka-jeṣu varas tatra raktas tṛṣṇā-tri-doṣa-hā ॥ 3 ॥mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare ।yavakā hāyanāḥ pāṃsu-bāṣpa-naiṣadhakādayaḥ ॥ 4 ॥svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣma-pittalāḥ ।sṛṣṭa-mūtra-purīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ ॥ 5 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |