| १. सूत्रस्थानम् - 1. sútrasthánam,-१९बस्तिविधि:-19basti-vidhi:, (D-1, K-19, V-21-22-23) |
आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्ध-बलं पुनः ॥ २० ॥ अन्वासनार्हं विज्ञाय पूर्वम् एवानुवासयेत् । शीते वसन्ते च दिवा रात्रौ के-चित् ततो ऽन्य-दा ॥ २१ ॥ अभ्यक्त-स्नातम् उचितात् पाद-हीनं हितं लघु । अ-स्निग्ध-रूक्षम् अशितं सानु-पानं द्रवादि च ॥ २२ ॥ कृत-चङ्क्रमणं मुक्त-विण्-मूत्रं शयने सुखे । नात्य्-उच्छ्रिते न चोच्-छीर्षे संविष्टं वाम-पार्श्वतः ॥ २३ ॥ संकोच्य दक्षिणं सक्थि प्रसार्य च ततो ऽपरम् । |
āsthāpyaṃ snehitaṃ svinnaṃ śuddhaṃ labdha-balaṃ punaḥ ॥ 20 ॥ anvāsanārhaṃ vijñāya pūrvam evānuvāsayet । śīte vasante ca divā rātrau ke-cit tato 'nya-dā ॥ 21 ॥ abhyakta-snātam ucitāt pāda-hīnaṃ hitaṃ laghu । a-snigdha-rūkṣam aśitaṃ sānu-pānaṃ dravādi ca ॥ 22 ॥ kṛta-caṅkramaṇaṃ mukta-viṇ-mūtraṃ śayane sukhe । nāty-ucchrite na coc-chīrṣe saṃviṣṭaṃ vāma-pārśvataḥ ॥ 23 ॥ saṃkocya dakṣiṇaṃ sakthi prasārya ca tato 'param । |
| - |
| Commentary Dhanvantri Institute of Ayurveda, Praha Czech Republic |