| १. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-74-77) |
वक्ष्यन्ते ऽतः परं दोषा वृद्धि-क्षय-विभेदतः । पृथक् त्रीन् विद्धि संसर्गस् त्रि-धा तत्र तु तान् नव ॥ ७४ ॥ त्रीन् एव समया वृद्ध्या षड् एकस्यातिशायने । त्रयो-दश समस्तेषु षड् द्व्य्-एकातिशयेन तु ॥ ७५ ॥ एकं तुल्याधिकैः षट् च तारतम्य-विकल्पनात् । पञ्च-विंशतिम् इत्य् एवं वृद्धैः क्षीणैश् च तावतः ॥ ७६ ॥ एकैक-वृद्धि-सम-ता-क्षयैः षट् ते पुनश् च षट् । एक-क्षय-द्वन्द्व-वृद्ध्या स-विपर्यययापि ते ॥ ७७ ॥ भेदा द्वि-षष्टिर् निर्दिष्टास् त्रि-षष्टिः स्वास्थ्य-कारणम् । |
vakṣyante 'taḥ paraṃ doṣā vṛddhi-kṣaya-vibhedataḥ ।pṛthak trīn viddhi saṃsargas tri-dhā tatra tu tān nava ॥ 74 ॥trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane ।trayo-daśa samasteṣu ṣaḍ dvy-ekātiśayena tu ॥ 75 ॥ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamya-vikalpanāt ।pañca-viṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ ॥ 76 ॥ekaika-vṛddhi-sama-tā-kṣayaiḥ ṣaṭ te punaś ca ṣaṭ ।eka-kṣaya-dvandva-vṛddhyā sa-viparyayayāpi te ॥ 77 ॥bhedā dvi-ṣaṣṭir nirdiṣṭās tri-ṣaṣṭiḥ svāsthya-kāraṇam । |
| - |
| Kommentar ... |