| १. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-57-59) |
दृष्टापचार-जः कश्-चित् कश्-चित् पूर्वापराध-जः । तत्-संकराद् भवत्य् अन्यो व्याधिर् एवं त्रि-धा स्मृतः ॥ ५७ ॥ यथा-निदानं दोषोत्थः कर्म-जो हेतुभिर् विना ।महारम्भो ऽल्पके हेताव् आतङ्को दोष-कर्म-जः ॥ ५८ ॥ विपक्ष-शीलनात् पूर्वः कर्म-जः कर्म-संक्षयात् । गच्छत्य् उभय-जन्मा तु दोष-कर्म-क्षयात् क्षयम् ॥ ५९ ॥ |
dṛṣṭāpacāra-jaḥ kaś-cit kaś-cit pūrvāparādha-jaḥ ।tat-saṃkarād bhavaty anyo vyādhir evaṃ tri-dhā smṛtaḥ ॥ 57 ॥yathā-nidānaṃ doṣotthaḥ karma-jo hetubhir vinā ।mahārambho 'lpake hetāv ātaṅko doṣa-karma-jaḥ ॥ 58 ॥vipakṣa-śīlanāt pūrvaḥ karma-jaḥ karma-saṃkṣayāt ।gacchaty ubhaya-janmā tu doṣa-karma-kṣayāt kṣayam ॥ 59 ॥ |
| - |
| Kommentar ... |