Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-25-28)

चीयते लघु-रूक्षाभिर् ओषधिभिः समीरणः ॥ २५ ॥ तद्-विधस् तद्-विधे देहे कालस्यौष्ण्यान् न कुप्यति । अद्भिर् अम्ल-विपाकाभिर् ओषधिभिश् च तादृशम् ॥ २६ ॥ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः । चीयते स्निग्ध-शीताभिर् उदकौषधिभिः कफः ॥ २७ ॥ तुल्ये ऽपि काले देहे च स्कन्न-त्वान् न प्रकुप्यति । इति काल-स्व-भावो ऽयम् आहारादि-वशात् पुनः ॥ २८ ॥ चयादीन् यान्ति सद्यो ऽपि दोषाः काले ऽपि वा न तु ।

cīyate laghu-rūkṣābhir oṣadhibhiḥ samīraṇaḥ ॥ 25 ॥tad-vidhas tad-vidhe dehe kālasyauṣṇyān na kupyati ।adbhir amla-vipākābhir oṣadhibhiś ca tādṛśam ॥ 26 ॥pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ ।cīyate snigdha-śītābhir udakauṣadhibhiḥ kaphaḥ ॥ 27 ॥tulye 'pi kāle dehe ca skanna-tvān na prakupyati ।iti kāla-sva-bhāvo 'yam āhārādi-vaśāt punaḥ ॥ 28 ॥cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu ।

-



Kommentar



...