| १. सूत्रस्थानम् - 1. sútrasthánam,-१२दोषभेदीय:-12doṣa-bhedīya:, (S.-1, Ch.-12, V.-10-14) |
पित्तं पञ्चात्मकं तत्र पक्वामाशय-मध्य-गम् । पञ्च-भूतात्मक-त्वे ऽपि यत् तैजस-गुणोदयात् ॥ १० ॥ त्यक्त-द्रव्य-त्वं पाकादि-कर्मणानल-शब्दितम् । पचत्य् अन्नं विभजते सार-किट्टौ पृथक् तथा ॥ ११ ॥ तत्र-स्थम् एव पित्तानां शेषाणाम् अप्य् अनुग्रहम् । करोति बल-दानेन पाचकं नाम तत् स्मृतम् ॥ १२ ॥ आमाशयाश्रयं पित्तं रञ्जकं रस-रञ्जनात् । बुद्धि-मेधाभिमानाद्यैर् अभिप्रेतार्थ-साधनात् ॥ १३ ॥ साधकं हृद्-गतं पित्तं रूपालोचनतः स्मृतम् । दृक्-स्थम् आलोचकं त्वक्-स्थं भ्राजकं भ्राजनात् त्वचः ॥ १४ ॥ |
pittaṃ pañcātmakaṃ tatra pakvāmāśaya-madhya-gam ।pañca-bhūtātmaka-tve 'pi yat taijasa-guṇodayāt ॥ 10 ॥tyakta-dravya-tvaṃ pākādi-karmaṇānala-śabditam ।pacaty annaṃ vibhajate sāra-kiṭṭau pṛthak tathā ॥ 11 ॥tatra-stham eva pittānāṃ śeṣāṇām apy anugraham ।karoti bala-dānena pācakaṃ nāma tat smṛtam ॥ 12 ॥āmāśayāśrayaṃ pittaṃ rañjakaṃ rasa-rañjanāt ।buddhi-medhābhimānādyair abhipretārtha-sādhanāt ॥ 13 ॥sādhakaṃ hṛd-gataṃ pittaṃ rūpālocanataḥ smṛtam ।dṛk-stham ālocakaṃ tvak-sthaṃ bhrājakaṃ bhrājanāt tvacaḥ ॥ 14 ॥ |
| - |
| Kommentar ... |