| १. सूत्रस्थानम् - 1. sútrasthánam,-११दोषादिविज्ञानीय:-11doṣādi-vijñānīya:, (S.-1, Ch.-11, V.-37-40) |
ओजस् तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् । हृदय-स्थम् अपि व्यापि देह-स्थिति-निबन्धनम् ॥ ३७ ॥ स्निग्धं सोमात्मकं शुद्धम् ईषल्-लोहित-पीतकम् । यन्-नाशे नियतं नाशो यस्मिंस् तिष्ठति तिष्ठति ॥ ३८ ॥ निष्पद्यन्ते यतो भावा विविधा देह-संश्रयाः । ओजः क्षीयेत कोप-क्षुद्-ध्यान-शोक-श्रमादिभिः ॥ ३९ ॥ बिभेति दुर्-बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः । दुश्-छायो दुर्-मना रूक्षो भवेत् क्षामश् च तत्-क्षये ॥ ४० ॥ |
ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam । hṛdaya-stham api vyāpi deha-sthiti-nibandhanam ॥ 37 ॥ snigdhaṃ somātmakaṃ śuddham īṣal-lohita-pītakam । yan-nāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati ॥ 38 ॥ niṣpadyante yato bhāvā vividhā deha-saṃśrayāḥ । ojaḥ kṣīyeta kopa-kṣud-dhyāna-śoka-śramādibhiḥ ॥ 39 ॥ bibheti dur-balo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ । duś-chāyo dur-manā rūkṣo bhavet kṣāmaś ca tat-kṣaye ॥ 40 ॥ |
| - |
| Kommentar ... |