Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-११दोषादिविज्ञानीय:-11doṣādi-vijñānīya:, (S.-1, Ch.-11, V.-26-29)

तत्रास्थनि स्थितो वायुः पित्तं तु स्वेद-रक्तयोः । श्लेष्मा शेषेषु तेनैषाम् आश्रयाश्रयिणां मिथः ॥ २६ ॥ यद् एकस्य तद् अन्यस्य वर्धन-क्षपणौषधम् । अस्थि-मारुतयोर् नैवं प्रायो वृद्धिर् हि तर्पणात् ॥ २७ ॥ श्लेष्मणानुगता तस्मात् संक्षयस् तद्-विपर्ययात् । वायुनानुगतो ऽस्माच् च वृद्धि-क्षय-समुद्भवान् ॥ २८ ॥ विकारान् साधयेच् छीघ्रं क्रमाल् लङ्घन-बृंहणैः । वायोर् अन्य-त्र तज्-जांस् तु तैर् एवोत्क्रम-योजितैः ॥ २९ ॥

tatrāsthani sthito vāyuḥ pittaṃ tu sveda-raktayoḥ । śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ ॥ 26 ॥ yad ekasya tad anyasya vardhana-kṣapaṇauṣadham । asthi-mārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt ॥ 27 ॥ śleṣmaṇānugatā tasmāt saṃkṣayas tad-viparyayāt । vāyunānugato 'smāc ca vṛddhi-kṣaya-samudbhavān ॥ 28 ॥ vikārān sādhayec chīghraṃ kramāl laṅghana-bṛṃhaṇaiḥ । vāyor anya-tra taj-jāṃs tu tair evotkrama-yojitaiḥ ॥ 29 ॥

-



Kommentar



...