| १. सूत्रस्थानम् - 1. sútrasthánam,-११दोषादिविज्ञानीय:-11doṣādi-vijñānīya:, (S.-1, Ch.-11, V.-17-20) |
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दा-सहिष्णु-ता । रक्ते ऽम्ल-शिशिर-प्रीति-सिरा-शैथिल्य-रूक्ष-ताः ॥ १७ ॥ मांसे ऽक्ष-ग्लानि-गण्ड-स्फिक्-शुष्क-ता-संधि-वेदनाः । मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्ग-ता ॥ १८ ॥ अस्थ्न्य् अस्थि-तोदः शदनं दन्त-केश-नखादिषु । अस्थ्नां मज्जनि सौषिर्यं भ्रमस् तिमिर-दर्शनम् ॥ १९ ॥ शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा । तोदो ऽत्य्-अर्थं वृषणयोर् मेढ्रं धूमायतीव च ॥ २० ॥ |
rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdā-sahiṣṇu-tā । rakte 'mla-śiśira-prīti-sirā-śaithilya-rūkṣa-tāḥ ॥ 17 ॥ māṃse 'kṣa-glāni-gaṇḍa-sphik-śuṣka-tā-saṃdhi-vedanāḥ । medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅga-tā ॥ 18 ॥ asthny asthi-todaḥ śadanaṃ danta-keśa-nakhādiṣu । asthnāṃ majjani sauṣiryaṃ bhramas timira-darśanam ॥ 19 ॥ śukre cirāt prasicyeta śukraṃ śoṇitam eva vā । todo 'ty-arthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca ॥ 20 ॥ |
| - |
| Kommentar ... |