Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-११दोषादिविज्ञानीय:-11doṣādi-vijñānīya:, (S.-1, Ch.-11, V.-8-12)

रसो ऽपि श्लेष्म-वद् रक्तं विसर्प-प्लीह-विद्रधीन् ॥ ८ ॥ कुष्ठ-वातास्र-पित्तास्र-गुल्मोप-कुश-कामलाः । व्यङ्गाग्नि-नाश-संमोह-रक्त-त्वङ्-नेत्र-मूत्र-ताः ॥ ९ ॥ मांसं गण्डार्बुद-ग्रन्थि-गण्डोरूदर-वृद्धि-ताः । कण्ठादिष्व् अधि-मांसं च तद्-वन् मेदस् तथा श्रमम् ॥ १० ॥ अल्पे ऽपि चेष्टिते श्वासं स्फिक्-स्तनोदर-लम्बनम् । अस्थ्य् अध्य्-अस्थ्य् अधि-दन्तांश् च मज्जा नेत्राङ्ग-गौरवम् ॥ ११ ॥ पर्वसु स्थूल-मूलानि कुर्यात् कृच्छ्राण्य् अरूंषि च । अति-स्त्री-काम-तां वृद्धं शुक्तं शुक्राश्मरीम् अपि ॥ १२ ॥

raso 'pi śleṣma-vad raktaṃ visarpa-plīha-vidradhīn ॥ 8 ॥ kuṣṭha-vātāsra-pittāsra-gulmopa-kuśa-kāmalāḥ । vyaṅgāgni-nāśa-saṃmoha-rakta-tvaṅ-netra-mūtra-tāḥ ॥ 9 ॥ māṃsaṃ gaṇḍārbuda-granthi-gaṇḍorūdara-vṛddhi-tāḥ । kaṇṭhādiṣv adhi-māṃsaṃ ca tad-van medas tathā śramam ॥ 10 ॥ alpe 'pi ceṣṭite śvāsaṃ sphik-stanodara-lambanam । asthy adhy-asthy adhi-dantāṃś ca majjā netrāṅga-gauravam ॥ 11 ॥ parvasu sthūla-mūlāni kuryāt kṛcchrāṇy arūṃṣi ca । ati-strī-kāma-tāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api ॥ 12 ॥

-



Kommentar



...