| १. सूत्रस्थानम् - 1. sútrasthánam,-११दोषादिविज्ञानीय:-11doṣādi-vijñānīya:, (S.-1, Ch.-11, V.-1-3) |
दोष-धातु-मला मूलं सदा देहस्य तं चलः । उत्साहोच्छ्वास-निश्वास-चेष्टा-वेग-प्रवर्तनैः ॥ १ ॥ सम्यग्-गत्या च धातूनाम् अक्षाणां पाटवेन च । अनुगृह्णात्य् अ-विकृतः पित्तं पक्त्य्-ऊष्म-दर्शनैः ॥ २ ॥ क्षुत्-तृड्-रुचि-प्रभा-मेधा-धी-शौर्य-तनु-मार्दवैः । श्लेष्मा स्थिर-त्व-स्निग्ध-त्व-संधि-बन्ध-क्षमादिभिः ॥ ३ ॥ |
doṣa-dhātu-malā mūlaṃ sadā dehasya taṃ calaḥ । utsāhocchvāsa-niśvāsa-ceṣṭā-vega-pravartanaiḥ ॥ 1 ॥ samyag-gatyā ca dhātūnām akṣāṇāṃ pāṭavena ca । anugṛhṇāty a-vikṛtaḥ pittaṃ pakty-ūṣma-darśanaiḥ ॥ 2 ॥ kṣut-tṛḍ-ruci-prabhā-medhā-dhī-śaurya-tanu-mārdavaiḥ । śleṣmā sthira-tva-snigdha-tva-saṃdhi-bandha-kṣamādibhiḥ ॥ 3 ॥ |
| - |
| Kommentar ... |