Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-९द्रव्यादिविज्ञानीय:-09dravyādi-vijñānīya:, (S.-1, Ch.-9, V.-12-17)

इति द्रव्यं रसान् भेदैर् उत्तर-त्रोपदेक्ष्यते । वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥ १२ ॥ लघु रूक्षोष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा । चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥ १३ ॥ ना-वीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा । गुर्व्-आदिष्व् एव वीर्याख्या तेनान्व्-अर्थेति वर्ण्यते ॥ १४ ॥ समग्र-गुण-सारेषु शक्त्य्-उत्कर्ष-विवर्तिषु । व्यवहाराय मुख्य-त्वाद् बह्व्-अग्र-ग्रहणाद् अपि ॥ १५ ॥ अतश् च विपरीत-त्वात् संभवत्य् अपि नैव सा । विवक्ष्यते रसाद्येषु वीर्यं गुर्व्-आदयो ह्य् अतः ॥ १६ ॥ उष्णं शीतं द्वि-धैवान्ये वीर्यम् आचक्षते ऽपि च । नानात्मकम् अपि द्रव्यम् अग्नी-षोमौ महा-बलौ ॥ १७ ॥ व्यक्ता-व्यक्तं जगद् इव नातिक्रामति जातु चित् ।

iti dravyaṃ rasān bhedair uttara-tropadekṣyate । vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu ॥ 12 ॥ laghu rūkṣoṣṇa-tīkṣṇaṃ ca tad evaṃ matam aṣṭa-dhā । carakas tv āha vīryaṃ tat kriyate yena yā kriyā ॥ 13 ॥ nā-vīryaṃ kurute kiñ-cit sarvā vīrya-kṛtā hi sā । gurv-ādiṣv eva vīryākhyā tenānv-artheti varṇyate ॥ 14 ॥ samagra-guṇa-sāreṣu śakty-utkarṣa-vivartiṣu । vyavahārāya mukhya-tvād bahv-agra-grahaṇād api ॥ 15 ॥ ataś ca viparīta-tvāt saṃbhavaty api naiva sā । vivakṣyate rasādyeṣu vīryaṃ gurv-ādayo hy ataḥ ॥ 16 ॥ uṣṇaṃ śītaṃ dvi-dhaivānye vīryam ācakṣate 'pi ca । nānātmakam api dravyam agnī-ṣomau mahā-balau ॥ 17 ॥ vyaktā-vyaktaṃ jagad iva nātikrāmati jātu cit ।

-



Kommentar



...