| १. सूत्रस्थानम् - 1. sútrasthánam,-९द्रव्यादिविज्ञानीय:-09dravyādi-vijñānīya:, (S.-1, Ch.-9, V.-5-10) |
तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥ ५ ॥ पार्थिवं गौरव-स्थैर्य-संघातोपचयावहम् । द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रसोल्बणम् ॥ ६ ॥ आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् । रूक्ष-तीक्ष्णोष्ण-विशद-सूक्ष्म-रूप-गुणोल्बणम् ॥ ७ ॥ आग्नेयं दाह-भा-वर्ण-प्रकाश-पवनात्मकम् । वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुणोल्बणम् ॥ ८ ॥ रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् । नाभसं सूक्ष्म-विशद-लघु-शब्द-गुणोल्बणम् ॥ ९ ॥ सौषिर्य-लाघव-करं जगत्य् एवम् अन्-औषधम् । न किञ्-चिद् विद्यते द्रव्यं वशान् नानार्थ-योगयोः ॥ १० ॥ |
tatra dravyaṃ guru-sthūla-sthira-gandha-guṇolbaṇam ॥ 5 ॥ pārthivaṃ gaurava-sthairya-saṃghātopacayāvaham । drava-śīta-guru-snigdha-manda-sāndra-rasolbaṇam ॥ 6 ॥ āpyaṃ snehana-viṣyanda-kleda-prahlāda-bandha-kṛt । rūkṣa-tīkṣṇoṣṇa-viśada-sūkṣma-rūpa-guṇolbaṇam ॥ 7 ॥ āgneyaṃ dāha-bhā-varṇa-prakāśa-pavanātmakam । vāyavyaṃ rūkṣa-viśada-laghu-sparśa-guṇolbaṇam ॥ 8 ॥ raukṣya-lāghava-vaiśadya-vicāra-glāni-kārakam । nābhasaṃ sūkṣma-viśada-laghu-śabda-guṇolbaṇam ॥ 9 ॥ sauṣirya-lāghava-karaṃ jagaty evam an-auṣadham । na kiñ-cid vidyate dravyaṃ vaśān nānārtha-yogayoḥ ॥ 10 ॥ |
| - |
| Kommentar ... |