Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-९द्रव्यादिविज्ञानीय:-09dravyādi-vijñānīya:, (S.-1, Ch.-9, V.-1-2)

द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः । पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ १ ॥ अम्बु-योन्य्-अग्नि-पवन-नभसाम् समवायतः । तन्-निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥ २ ॥

dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tad-āśrayāḥ ।pañca-bhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate ॥ 1 ॥ambu-yony-agni-pavana-nabhasām samavāyataḥ ।tan-nirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā ॥ 2 ॥

-



Kommentar



...