| १. सूत्रस्थानम् - 1. sútrasthánam,-८मात्राशितीय:-08mātrā-śitīya:, (S.-1, Ch.-8, V.-15-17) |
अथामम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् । पीत्वा सोग्रा-पटु-फलं वार्य् उष्णं योजयेत् ततः ॥ १५ ॥ स्वेदनं फल-वर्तिं च मल-वातानुलोमनीम् । नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ १६ ॥ विषूच्याम् अति-वृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते । तद्-अहश् चोपवास्यैनं विरिक्त-वद् उपाचरेत् ॥ १७ ॥ |
athāmam alasī-bhūtaṃ sādhyaṃ tvaritam ullikhet ।pītvā sogrā-paṭu-phalaṃ vāry uṣṇaṃ yojayet tataḥ ॥ 15 ॥svedanaṃ phala-vartiṃ ca mala-vātānulomanīm ।nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet ॥ 16 ॥viṣūcyām ati-vṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate ।tad-ahaś copavāsyainaṃ virikta-vad upācaret ॥ 17 ॥ |
| - |
| Kommentar ... |