Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-८मात्राशितीय:-08mātrā-śitīya:, (S.-1, Ch.-8, V.-10-12)

विशेषाद् दुर्-बलस्याल्प-वह्नेर् वेग-विधारिणः । पीडितं मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥ १० ॥ अलसं क्षोभितं दोषैः शल्य-त्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रांश् छर्द्य्-अतीसार-वर्जितान् ॥ ११ ॥ सो ऽलसो ऽत्य्-अर्थ-दुष्टास् तु दोषा दुष्टाम-बद्ध-खाः । यान्तस् तिर्यक् तनुं सर्वां दण्ड-वत् स्तम्भयन्ति चेत् ॥ १२ ॥ दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् ।

viśeṣād dur-balasyālpa-vahner vega-vidhāriṇaḥ ।pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā ॥ 10 ॥alasaṃ kṣobhitaṃ doṣaiḥ śalya-tvenaiva saṃsthitam ।śūlādīn kurute tīvrāṃś chardy-atīsāra-varjitān ॥ 11 ॥so 'laso 'ty-artha-duṣṭās tu doṣā duṣṭāma-baddha-khāḥ ।yāntas tiryak tanuṃ sarvāṃ daṇḍa-vat stambhayanti cet ॥ 12 ॥daṇḍakālasakaṃ nāma taṃ tyajed āśu-kāriṇam ।

-



Kommentar



...