| १. सूत्रस्थानम् - 1. sútrasthánam,-८मात्राशितीय:-08mātrā-śitīya:, (S.-1, Ch.-8, V.-4-7) |
पीड्यमाना हि वाताद्या युग-पत् तेन कोपिताः ॥ ४ ॥ आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते । विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥ ५ ॥ अधरोत्तर-मार्गाभ्यां सहसैवा-जितात्मनः । प्रयाति नोर्ध्वं नाधस्-ताद् आहारो न च पच्यते ॥ ६ ॥ आमाशये ऽलसी-भूतस् तेन सो ऽलसकः स्मृतः । विविधैर् वेदनोद्भेदैर् वाय्व्-आदि-भृश-कोपतः ॥ ७ ॥ सूचीभिर् इव गात्राणि विध्यतीति विषूचिका । |
pīḍyamānā hi vātādyā yuga-pat tena kopitāḥ ॥ 4 ॥āmenānnena duṣṭena tad evāviśya kurvate ।viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām ॥ 5 ॥adharottara-mārgābhyāṃ sahasaivā-jitātmanaḥ ।prayāti nordhvaṃ nādhas-tād āhāro na ca pacyate ॥ 6 ॥āmāśaye 'lasī-bhūtas tena so 'lasakaḥ smṛtaḥ ।vividhair vedanodbhedair vāyv-ādi-bhṛśa-kopataḥ ॥ 7 ॥sūcībhir iva gātrāṇi vidhyatīti viṣūcikā । |
| - |
| Kommentar ... |