Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-७अन्नरक्षा-07anna-rakṣā, (S.-1, Ch.-7, V.-56-67)

ग्रीष्मे वायु-चयादान-रौक्ष्य-रात्र्य्-अल्प-भावतः ॥ ५६ ॥ दिवा-स्वप्नो हितो ऽन्यस्मिन् कफ-पित्त-करो हि सः । मुक्त्वा तु भाष्य-यानाध्व-मद्य-स्त्री-भार-कर्मभिः ॥ ५७ ॥ क्रोध-शोक-भयैः क्लान्तान् श्वास-हिध्मातिसारिणः । वृद्ध-बाला-बल-क्षीण-क्षत-तृट्-शूल-पीडितान् ॥ ५८ ॥ अ-जीर्ण्य्-अभिहतोन्मत्तान् दिवा-स्वप्नोचितान् अपि । धातु-साम्यं तथा ह्य् एषां श्लेष्मा चाङ्गानि पुष्यति ॥ ५९ ॥ बहु-मेदः-कफाः स्वप्युः स्नेह-नित्याश् च नाहनि । विषार्तः कण्ठ-रोगी च नैव जातु निशास्व् अपि ॥ ६० ॥ अ-काल-शयनान् मोह-ज्वर-स्तैमित्य-पीनसाः । शिरो-रुक्-शोफ-हृल्-लास-स्रोतो-रोधाग्नि-मन्द-ताः ॥ ६१ ॥ तत्रोपवास-वमन-स्वेद-नावनम् औषधम् । योजयेद् अति-निद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम् ॥ ६२ ॥ नावनं लङ्घनं चिन्तां व्यवायं शोक-भी-क्रुधः । एभिर् एव च निद्राया नाशः श्लेष्माति-संक्षयात् ॥ ६३ ॥ निद्रा-नाशाद् अङ्ग-मर्द-शिरो-गौरव-जृम्भिकाः । जाड्य-ग्लानि-भ्रमा-पक्ति-तन्द्रा रोगाश् च वात-जाः ॥ ६४ ॥ यथा-कालम् अतो निद्रां रात्रौ सेवेत सात्म्यतः । अ-सात्म्याज् जागराद् अर्धं प्रातः स्वप्याद् अ-भुक्त-वान् ॥ ६५ ॥ शीलयेन् मन्द-निद्रस् तु क्षीर-मद्य-रसान् दधि । अभ्यङ्गोद्वर्तन-स्नान-मूर्ध-कर्णाक्षि-तर्पणम् ॥ ६६ ॥ कान्ता-बाहु-लताश्लेषो निर्वृतिः कृत-कृत्य-ता । मनो-ऽनुकूला विषयाः कामं निद्रा-सुख-प्रदाः ॥ ६७ ॥

grīṣme vāyu-cayādāna-raukṣya-rātry-alpa-bhāvataḥ ॥ 56 ॥divā-svapno hito 'nyasmin kapha-pitta-karo hi saḥ ।muktvā tu bhāṣya-yānādhva-madya-strī-bhāra-karmabhiḥ ॥ 57 ॥krodha-śoka-bhayaiḥ klāntān śvāsa-hidhmātisāriṇaḥ ।vṛddha-bālā-bala-kṣīṇa-kṣata-tṛṭ-śūla-pīḍitān ॥ 58 ॥a-jīrṇy-abhihatonmattān divā-svapnocitān api ।dhātu-sāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati ॥ 59 ॥bahu-medaḥ-kaphāḥ svapyuḥ sneha-nityāś ca nāhani ।viṣārtaḥ kaṇṭha-rogī ca naiva jātu niśāsv api ॥ 60 ॥a-kāla-śayanān moha-jvara-staimitya-pīnasāḥ ।śiro-ruk-śopha-hṛl-lāsa-sroto-rodhāgni-manda-tāḥ ॥ 61 ॥tatropavāsa-vamana-sveda-nāvanam auṣadham ।yojayed ati-nidrāyāṃ tīkṣṇaṃ pracchardanāñjanam ॥ 62 ॥nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śoka-bhī-krudhaḥ ।ebhir eva ca nidrāyā nāśaḥ śleṣmāti-saṃkṣayāt ॥ 63 ॥nidrā-nāśād aṅga-marda-śiro-gaurava-jṛmbhikāḥ ।jāḍya-glāni-bhramā-pakti-tandrā rogāś ca vāta-jāḥ ॥ 64 ॥yathā-kālam ato nidrāṃ rātrau seveta sātmyataḥ ।a-sātmyāj jāgarād ardhaṃ prātaḥ svapyād a-bhukta-vān ॥ 65 ॥śīlayen manda-nidras tu kṣīra-madya-rasān dadhi ।abhyaṅgodvartana-snāna-mūrdha-karṇākṣi-tarpaṇam ॥ 66 ॥kāntā-bāhu-latāśleṣo nirvṛtiḥ kṛta-kṛtya-tā ।mano-'nukūlā viṣayāḥ kāmaṃ nidrā-sukha-pradāḥ ॥ 67 ॥

-



Kommentar



...