Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-७अन्नरक्षा-07anna-rakṣā, (S.-1, Ch.-7, V.-29-44)

विरुद्धम् अपि चाहारं विद्याद् विष-गरोपमम् ॥ २९ ॥ आनूपम् आमिषं माष-क्षौद्र-क्षीर-विरूढकैः । विरुध्यते सह बिसैर् मूलकेन गुडेन वा ॥ ३० ॥ विशेषात् पयसा मत्स्या मत्स्येष्व् अपि चिलीचिमः । विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥ ३१ ॥ तद्-वत् कुलत्थ-चणक-कङ्गु-वल्ल-मकुष्टकाः । भक्षयित्वा हरितकं मूलकादि पयस् त्यजेत् ॥ ३२ ॥ वाराहं श्वाविधा नाद्याद् दध्ना पृषत-कुक्कुटौ । आम-मांसानि पित्तेन माष-सूपेन मूलकम् ॥ ३३ ॥ अविं कुसुम्भ-शाकेन बिसैः सह विरूढकम् । माष-सूप-गुड-क्षीर-दध्य्-आज्यैर् लाकुचं फलम् ॥ ३४ ॥ फलं कदल्यास् तक्रेण दध्ना ताल-फलेन वा । कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ ३५ ॥ सिद्धां वा मत्स्य-पचने पचने नागरस्य वा । सिद्धाम् अन्य-त्र वा पात्रे कामात् ताम् उषितां निशाम् ॥ ३६ ॥ मत्स्य-निस्तलन-स्नेहे साधिताः पिप्पलीस् त्यजेत् । कांस्ये दशाहम् उषितं सर्पिर् उष्णं त्व् अरुष्करे ॥ ३७ ॥ भासो विरुध्यते शूल्यः कम्पिल्लस् तक्र-साधितः । ऐकध्यं पायस-सुरा-कृशराः परिवर्जयेत् ॥ ३८ ॥ मधु-सर्पिर्-वसा-तैल-पानीयानि द्वि-शश् त्रि-शः । एक-त्र वा समांशानि विरुध्यन्ते परस्-परम् ॥ ३९ ॥ भिन्नांशे अपि मध्व्-आज्ये दिव्य-वार्य् अनु-पानतः । मधु-पुष्कर-बीजं च मधु-मैरेय-शार्करम् ॥ ४० ॥ मन्थानु-पानः क्षैरेयो हारिद्रः कटु-तैल-वान् । उपोदकातिसाराय तिल-कल्केन साधिता ॥ ४१ ॥ बलाका वारुणी-युक्ता कुल्माषैश् च विरुध्यते । भृष्टा वराह-वसया सैव सद्यो निहन्त्य् असून् ॥ ४२ ॥ तद्-वत् तित्तिरि-पत्त्राढ्य-गोधा-लाव-कपिञ्जलाः । ऐरण्डेनाग्निना सिद्धास् तत्-तैलेन विमूर्छिताः ॥ ४३ ॥ हारीत-मांसं हारिद्र-शूलक-प्रोत-पाचितम् । हरिद्रा-वह्निना सद्यो व्यापादयति जीवितम् ॥ ४४ ॥ भस्म-पांसु-परिध्वस्तं तद् एव च स-माक्षिकम् ।

viruddham api cāhāraṃ vidyād viṣa-garopamam ॥ 29 ॥ānūpam āmiṣaṃ māṣa-kṣaudra-kṣīra-virūḍhakaiḥ ।virudhyate saha bisair mūlakena guḍena vā ॥ 30 ॥viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ ।viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā ॥ 31 ॥tad-vat kulattha-caṇaka-kaṅgu-valla-makuṣṭakāḥ ।bhakṣayitvā haritakaṃ mūlakādi payas tyajet ॥ 32 ॥vārāhaṃ śvāvidhā nādyād dadhnā pṛṣata-kukkuṭau ।āma-māṃsāni pittena māṣa-sūpena mūlakam ॥ 33 ॥aviṃ kusumbha-śākena bisaiḥ saha virūḍhakam ।māṣa-sūpa-guḍa-kṣīra-dadhy-ājyair lākucaṃ phalam ॥ 34 ॥phalaṃ kadalyās takreṇa dadhnā tāla-phalena vā ।kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā ॥ 35 ॥siddhāṃ vā matsya-pacane pacane nāgarasya vā ।siddhām anya-tra vā pātre kāmāt tām uṣitāṃ niśām ॥ 36 ॥matsya-nistalana-snehe sādhitāḥ pippalīs tyajet ।kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare ॥ 37 ॥bhāso virudhyate śūlyaḥ kampillas takra-sādhitaḥ ।aikadhyaṃ pāyasa-surā-kṛśarāḥ parivarjayet ॥ 38 ॥madhu-sarpir-vasā-taila-pānīyāni dvi-śaś tri-śaḥ ।eka-tra vā samāṃśāni virudhyante paras-param ॥ 39 ॥bhinnāṃśe api madhv-ājye divya-vāry anu-pānataḥ ।madhu-puṣkara-bījaṃ ca madhu-maireya-śārkaram ॥ 40 ॥manthānu-pānaḥ kṣaireyo hāridraḥ kaṭu-taila-vān ।upodakātisārāya tila-kalkena sādhitā ॥ 41 ॥balākā vāruṇī-yuktā kulmāṣaiś ca virudhyate ।bhṛṣṭā varāha-vasayā saiva sadyo nihanty asūn ॥ 42 ॥tad-vat tittiri-pattrāḍhya-godhā-lāva-kapiñjalāḥ ।airaṇḍenāgninā siddhās tat-tailena vimūrchitāḥ ॥ 43 ॥hārīta-māṃsaṃ hāridra-śūlaka-prota-pācitam ।haridrā-vahninā sadyo vyāpādayati jīvitam ॥ 44 ॥bhasma-pāṃsu-paridhvastaṃ tad eva ca sa-mākṣikam ।

-



Kommentar



...