Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-७अन्नरक्षा-07anna-rakṣā, (S.-1, Ch.-7, V.-14-18)

म्रियन्ते मक्षिकाः प्राश्य काकः क्षाम-स्वरो भवेत् ॥ १४ ॥ उत्क्रोशन्ति च दृष्ट्वैतच् छुक-दात्यूह-सारिकाः । हंसः प्रस्खलति ग्लानिर् जीवञ्जीवस्य जायते ॥ १५ ॥ चकोरस्याक्षि-वैराग्यं क्रौञ्चस्य स्यान् मदोदयः । कपोत-परभृद्-दक्ष-चक्रवाका जहत्य् असून् ॥ १६ ॥ उद्वेगं याति मार्जारः शकृन् मुञ्चति वानरः । हृष्येन् मयूरस् तद्-दृष्ट्या मन्द-तेजो भवेद् विषम् ॥ १७ ॥ इत्य् अन्नं विष-वज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः । यथा तेन विपद्येरन्न् अपि न क्षुद्र-जन्तवः ॥ १८ ॥

mriyante makṣikāḥ prāśya kākaḥ kṣāma-svaro bhavet ॥ 14 ॥utkrośanti ca dṛṣṭvaitac chuka-dātyūha-sārikāḥ ।haṃsaḥ praskhalati glānir jīvañjīvasya jāyate ॥ 15 ॥cakorasyākṣi-vairāgyaṃ krauñcasya syān madodayaḥ ।kapota-parabhṛd-dakṣa-cakravākā jahaty asūn ॥ 16 ॥udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ ।hṛṣyen mayūras tad-dṛṣṭyā manda-tejo bhaved viṣam ॥ 17 ॥ity annaṃ viṣa-vaj jñātvā tyajed evaṃ prayatnataḥ ।yathā tena vipadyerann api na kṣudra-jantavaḥ ॥ 18 ॥

-



Kommentar



...