Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-७अन्नरक्षा-07anna-rakṣā, (S.-1, Ch.-7, V.-7-11)

नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा-पीतासिता तक्रे घृते पानीय-संनिभा ॥ ७ ॥ मस्तुनि स्यात् कपोताभा राजी कृष्णा तुषोदके । काली मद्याम्भसोः क्षौद्रे हरित् तैले ऽरुणोपमा ॥ ८ ॥ पाकः फलानाम् आमानां पक्वानां परिकोथनम् । द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥ ९ ॥ मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः । माल्यस्य स्फुटिताग्र-त्वं म्लानिर् गन्धान्तरोद्भवः ॥ १० ॥ ध्याम-मण्डल-ता वस्त्रे शदनं तन्तु-पक्ष्मणाम् । धातु-मौक्तिक-काष्ठाश्म-रत्नादिषु मलाक्त-ता ॥ ११ ॥ स्नेह-स्पर्श-प्रभा-हानिः स-प्रभ-त्वं तु मृन्-मये ।

nīlā rājī rase tāmrā kṣīre dadhani dṛśyate ।śyāvā-pītāsitā takre ghṛte pānīya-saṃnibhā ॥ 7 ॥mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake ।kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā ॥ 8 ॥pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam ।dravyāṇām ārdra-śuṣkāṇāṃ syātāṃ mlāni-vivarṇa-te ॥ 9 ॥mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśa-viparyayaḥ ।mālyasya sphuṭitāgra-tvaṃ mlānir gandhāntarodbhavaḥ ॥ 10 ॥dhyāma-maṇḍala-tā vastre śadanaṃ tantu-pakṣmaṇām ।dhātu-mauktika-kāṣṭhāśma-ratnādiṣu malākta-tā ॥ 11 ॥sneha-sparśa-prabhā-hāniḥ sa-prabha-tvaṃ tu mṛn-maye ।

-



Kommentar



...