| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-161-164) |
रसे पाके च कटुकं कफ-घ्नं मरिचं लघु । श्लेष्मला स्वादु-शीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥ १६१ ॥ सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः । स्वादु-पाकानिल-श्लेष्म-श्वास-कासापहा सरा ॥ १६२ ॥ न ताम् अत्य् उपयुञ्जीत रसायन-विधिं विना । नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥ १६३ ॥ रुच्यं लघु स्वादु-पाकं स्निग्धोष्णं कफ-वात-जित् । तद्-वद् आर्द्रकम् एतच् च त्रयं त्रि-कटुकं जयेत् ॥ १६४ ॥ स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् । |
rase pāke ca kaṭukaṃ kapha-ghnaṃ maricaṃ laghu ।śleṣmalā svādu-śītārdrā gurvī snigdhā ca pippalī ॥ 159 ॥sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ ।svādu-pākānila-śleṣma-śvāsa-kāsāpahā sarā ॥ 160 ॥na tām aty upayuñjīta rasāyana-vidhiṃ vinā ।nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandha-nut ॥ 161 ॥rucyaṃ laghu svādu-pākaṃ snigdhoṣṇaṃ kapha-vāta-jit ।tad-vad ārdrakam etac ca trayaṃ tri-kaṭukaṃ jayet ॥ 162 ॥sthaulyāgni-sadana-śvāsa-kāsa-ślīpada-pīnasān । |
| - |
| Kommentar ... |