| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-100-103) |
यद् बालम् अ-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् ॥ १०० ॥ तन् मूलकं दोष-हरं लघु सोष्णं नियच्छति । गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गलामयान् ॥ १०१ ॥ स्वराग्नि-सादोदावर्त-पीनसांश् च महत् पुनः । रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् ॥ १०२ ॥ गुर्व् अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् । वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् ॥ १०३ ॥ |
yad bālam a-vyakta-rasaṃ kiñ-cit-kṣāraṃ sa-tiktakam ॥ 100 ॥tan mūlakaṃ doṣa-haraṃ laghu soṣṇaṃ niyacchati ।gulma-kāsa-kṣaya-śvāsa-vraṇa-netra-galāmayān ॥ 101 ॥svarāgni-sādodāvarta-pīnasāṃś ca mahat punaḥ ।rase pāke ca kaṭukam uṣṇa-vīryaṃ tri-doṣa-kṛt ॥ 102 ॥gurv abhiṣyandi ca snigdha-siddhaṃ tad api vāta-jit ।vāta-śleṣma-haraṃ śuṣkaṃ sarvam āmaṃ tu doṣalam ॥ 103 ॥ |
| - |
| Kommentar ... |