Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-85-88)

कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कार्व्-एर्वारु-तिण्डिशम् ॥ ८५ ॥ तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् । भेदि विष्टम्भ्य् अभिष्यन्दि स्वादु-पाक-रसं गुरु ॥ ८६ ॥ वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् । वस्ति-शुद्धि-करं वृष्यं त्रपुसं त्व् अति-मूत्रलम् ॥ ८७ ॥ तुम्बं रूक्ष-तरं ग्राहि कालिङ्गैर्वारु-चिर्भटम् । बालं पित्त-हरं शीतं विद्यात् पक्वम् अतो ऽन्य-था ॥ ८८ ॥

kūṣmāṇḍa-tumba-kāliṅga-karkārv-ervāru-tiṇḍiśam ॥ 85 ॥ tathā trapusa-cīnāka-cirbhaṭaṃ kapha-vāta-kṛt ।bhedi viṣṭambhy abhiṣyandi svādu-pāka-rasaṃ guru ॥ 86 ॥ vallī-phalānāṃ pravaraṃ kūṣmāṇḍaṃ vāta-pitta-jit ।vasti-śuddhi-karaṃ vṛṣyaṃ trapusaṃ tv ati-mūtralam ॥ 87 ॥ tumbaṃ rūkṣa-taraṃ grāhi kāliṅgairvāru-cirbhaṭam ।bālaṃ pitta-haraṃ śītaṃ vidyāt pakvam ato 'nya-thā ॥ 88 ॥

-



Kommentar



...