| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-80-83) |
करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् ॥ ८० ॥ कोशातकावल्गुजकौ भेदिनाव् अग्नि-दीपनौ । तण्डुलीयो हिमो रूक्षः स्वादु-पाक-रसो लघुः ॥ ८१ ॥ मद-पित्त-विषास्र-घ्नो मुञ्जातं वात-पित्त-जित् । स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् ॥ ८२ ॥ गुर्वी सरा तु पालङ्क्या मद-घ्नी चाप्य् उपोदका । पालङ्क्या-वत् स्मृतश् चञ्चुः स तु संग्रहणात्मकः॥ ८३ ॥ |
karīram ādhmāna-karaṃ kaṣāyaṃ svādu tiktakam ॥ 80 ॥ kośātakāvalgujakau bhedināv agni-dīpanau ।taṇḍulīyo himo rūkṣaḥ svādu-pāka-raso laghuḥ ॥ 81 ॥ mada-pitta-viṣāsra-ghno muñjātaṃ vāta-pitta-jit ।snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukra-kṛt param ॥ 82 ॥ gurvī sarā tu pālaṅkyā mada-ghnī cāpy upodakā ।pālaṅkyā-vat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ ॥ 83 ॥ |
| - |
| Kommentar ... |