| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-11-14) |
भग्न-संधान-कृत् तत्र प्रियङ्गुर् बृंहणी गुरुः । कोरदूषः परं ग्राही स्पर्शो शीतो विषापहः ॥ ११ ॥ रूक्षः शीतो गुरुः स्वादुः सरो विड्-वात-कृद् यवः । वृष्यः स्थैर्य-करो मूत्र-मेदः-पित्त-कफाञ् जयेत् ॥ १२ ॥ पीनस-श्वास-कासोरु-स्तम्भ-कण्ठ-त्वग्-आमयान् । न्यूनो यवाद् अनु-यवो रूक्षोष्णो वंश-जो यवः ॥ १३ ॥ वृष्यः शीतो गुरुः स्निग्धो जीवनो वात-पित्त-हा । संधान-कारी मधुरो गोधूमः स्थैर्य-कृत् सरः ॥ १४ ॥ पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः । |
bhagna-saṃdhāna-kṛt tatra priyaṅgur bṛṃhaṇī guruḥ ।koradūṣaḥ paraṃ grāhī sparśo śīto viṣāpahaḥ ॥ 11 ॥rūkṣaḥ śīto guruḥ svāduḥ saro viḍ-vāta-kṛd yavaḥ ।vṛṣyaḥ sthairya-karo mūtra-medaḥ-pitta-kaphāñ jayet ॥ 12 ॥pīnasa-śvāsa-kāsoru-stambha-kaṇṭha-tvag-āmayān ।nyūno yavād anu-yavo rūkṣoṣṇo vaṃśa-jo yavaḥ ॥ 13 ॥vṛṣyaḥ śīto guruḥ snigdho jīvano vāta-pitta-hā ।saṃdhāna-kārī madhuro godhūmaḥ sthairya-kṛt saraḥ ॥ 14 ॥pathyā nandīmukhī śītā kaṣāya-madhurā laghuḥ । |
| - |
| Kommentar ... |