| १. सूत्रस्थानम् - 1. sútrasthánam,-५द्रवद्रव्यविज्ञानीय:-05drava-dravya-4vijñānīya:, (S.-1, Ch.-5, V.-67-69) |
गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः । सुरानिल-घ्नी मेदो-ऽसृक्-स्तन्य-मूत्र-कफावहा ॥ ६७ ॥ तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च । शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥ ६८ ॥ नाति-तीव्र-मदा लघ्वी पथ्या वैभीतकी सुरा । व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥ ६९ ॥ |
gulmodarārśo-grahaṇī-śoṣa-hṛt snehanī guruḥ ।surānila-ghnī medo-'sṛk-stanya-mūtra-kaphāvahā ॥ 67 ॥tad-guṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca ।śūla-kāsa-vami-śvāsa-vibandhādhmāna-pīnasān ॥ 68 ॥nāti-tīvra-madā laghvī pathyā vaibhītakī surā ।vraṇe pāṇḍv-āmaye kuṣṭhe na cāty-arthaṃ virudhyate ॥ 69 ॥ |
| - |
| Kommentar ... |