| १. सूत्रस्थानम् - 1. sútrasthánam,-५द्रवद्रव्यविज्ञानीय:-05drava-dravya-4vijñānīya:, (S.-1, Ch.-5, V.-8-12) |
पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥ ८ ॥ पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था । उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥ ९ ॥ हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः । कृमि-श्लीपद-हृत्-कण्थ-शिरो-रोगान् प्रकुर्वते ॥ १० ॥ प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः । उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥ ११ ॥ कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः । बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥ १२ ॥ |
paścimoda-dhi-gāḥ śīghra-vahā yāś cā-malodakāḥ ॥ 8 ॥pathyāḥ samāsāt tā nadyo viparītās tv ato 'nya-thā ।upalāsphālanākṣepa-vicchedaiḥ kheditodakāḥ ॥ 9 ॥himavan-malayodbhūtāḥ pathyās tā eva ca sthirāḥ ।kṛmi-ślīpada-hṛt-kaṇtha-śiro-rogān prakurvate ॥ 10 ॥prācyāvanty-aparāntotthā dur-nāmāni mahendra-jāḥ ।udara-ślīpadātaṅkān sahya-vindhyodbhavāḥ punaḥ ॥ 11 ॥kuṣṭha-pāṇḍu-śiro-rogān doṣa-ghnyaḥ pāriyātra-jāḥ ।bala-pauruṣa-kāriṇyaḥ sāgarāmbhas tri-doṣa-kṛt ॥ 12 ॥ |
| - |
| Kommentar ... |