Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-३ऋतुचर्या-03ṛtucaryā, (S.-1, Ch.-3, V.-37-41)

*** निशा-कर-कराकीर्णे सौध-पृष्ठे निशासु च ॥ ३७ ॥ आसना स्वस्थ-चित्तस्य चन्दनार्द्रस्य मालिनः । निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥ ३८ ॥ जलार्द्रास् ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः । उत्क्षेपाश् च मृदूत्क्षेपा जल-वर्षि-हिमानिलाः ॥ ३९ ॥ कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः । मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥ ४० ॥ मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः । जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ ४१ ॥

niśā-kara-karākīrṇe saudha-pṛṣṭhe niśāsu ca ॥ 37 ॥ āsanā svastha-cittasya candanārdrasya mālinaḥ । nivṛtta-kāma-tantrasya su-sūkṣma-tanu-vāsasaḥ ॥ 38 ॥ jalārdrās tāla-vṛntāni vistṛtāḥ padminī-puṭāḥ । utkṣepāś ca mṛdūtkṣepā jala-varṣi-himānilāḥ ॥ 39 ॥ karpūra-mallikā-mālā hārāḥ sa-hari-candanāḥ । mano-hara-kalālāpāḥ śiśavaḥ sārikāḥ śukāḥ ॥ 40 ॥ mṛṇāla-valayāḥ kāntāḥ protphulla-kamalojjvalāḥ । jaṅgamā iva padminyo haranti dayitāḥ klamam ॥ 41 ॥

-



Kommentar



...