| १. सूत्रस्थानम् - 1. sútrasthánam,-३ऋतुचर्या-03ṛtucaryā, (S.-1, Ch.-3, V.-18-22) |
कफश् चितो हि शिशिरे वसन्ते ऽर्कांशु-तापितः । हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥ १८ ॥ तीक्ष्णैर् वमन-नस्याद्यैर् लघु-रूक्षैश् च भोजनैः । व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥ १९ ॥ स्नातो ऽनुलिप्तः कर्पूर-चन्दनागुरु-कुङ्कुमैः । पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥ २० ॥ सहकार-रसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् । प्रियास्य-सङ्ग-सुरभीन् प्रिया-नेत्रोत्पलाङ्कितान् ॥ २१ ॥ सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् । निर्गदान् आसवारिष्ट-सीधु-मार्द्वीक-माधवान् ॥ २२ ॥ शृङ्गवेराम्बु साराम्बु मध्व्-अम्बु जलदाम्बु च । |
kaphaś cito hi śiśire vasante 'rkāṃśu-tāpitaḥ । hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet ॥ 18 ॥ tīkṣṇair vamana-nasyādyair laghu-rūkṣaiś ca bhojanaiḥ । vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam ॥ 19 ॥ snāto 'nuliptaḥ karpūra-candanāguru-kuṅkumaiḥ । purāṇa-yava-godhūma-kṣaudra-jāṅgala-śūlya-bhuk ॥ 20 ॥ sahakāra-rasonmiśrān āsvādya priyayārpitān । priyāsya-saṅga-surabhīn priyā-netrotpalāṅkitān ॥ 21 ॥ saumanasya-kṛto hṛdyān vayasyaiḥ sahitaḥ pibet । nirgadān āsavāriṣṭa-sīdhu-mārdvīka-mādhavān ॥ 22 ॥ śṛṅgaverāmbu sārāmbu madhv-ambu jaladāmbu ca । |
| - |
| Kommentar ... |